|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.106. अध्यायः 106
Mahabharata - Drona Parva - Chapter Topics
द्रोणयुधिष्ठिरयोर्युद्धम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-106-0x(4533)(48902)
अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः।
पाञ्चालाः कुरुभिः सार्धं किमकुर्वत स़ञ्जय॥ 7-106-1(48903)
सञ्जय उवाच। 7-106-2x(4534)
अपराह्णे महाराज सङ्ग्रमे रोमहर्षणे।
पाञ्चालानां कुरूणां च द्रोणद्यूतमवर्तत॥ 7-106-2(48904)
पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः।
अभ्यमुञ्चन्त गर्जन्तः शरवर्षाणि मारिष॥ 7-106-3(48905)
ततस्तुल तुमुलस्तेषां सङ्ग्रामोऽवर्तताद्भुतः।
पाञ्चालानां कुरूणां च घोरो देवासुरोपमः॥ 7-106-4(48906)
सर्वे द्रोणरथं प्राप्य पाञ्चालाः पाण्डवैः सह।
तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन्॥ 7-106-5(48907)
द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः।
कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम्॥ 7-106-6(48908)
तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः।
विमुञ्चन्निशितान्बाणान्महेन्द्राशनिसन्निभान्॥ 7-106-7(48909)
तं तु प्रत्युद्ययौ शीघ्रं क्षेमधूर्तिर्महायशाः।
विमुञ्चन्निशितान्बाणाञ्शतशोऽथ सहस्रशः॥ 7-106-8(48910)
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः।
त्वरितोऽभ्यद्रवद्द्रोणं महेन्द्रमिव शम्बरः॥ 7-106-9(48911)
तमापतन्तं सहसा व्यादितास्यमिवान्तकम्।
वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात्॥ 7-106-10(48912)
युधिष्ठिरं महाराजं जिगीषुं समवस्थितम्।
सहानीकं ततो द्रोणो न्यवारयत वीर्यवान्॥ 7-106-11(48913)
नकुलं कुशलं युद्धे पराक्रन्तं पराक्रमी।
अभ्यगच्छत्समायान्तं विकर्णस्ते सुतः प्रभो॥ 7-106-12(48914)
सहदेवं तथाऽऽयान्तं दुर्मुखः शत्रुकर्शनः।
शैररनेकसाहस्रैः समवाकिरदाशुगैः॥ 7-106-13(48915)
सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारयत्।
शरैः सुनिशितैस्तीक्ष्णैः कम्पयन्वै मुहुर्मुहुः॥ 7-106-14(48916)
द्रौपदेयान्नरव्याघ्रान्मुञ्चतः सायकोत्तमान्।
संरब्धान्रथिनः श्रेष्ठान्सौमदत्तिरवारयत्॥ 7-106-15(48917)
भीमसेनं तदा क्रुद्धं भीमरूपो भयानकः।
प्रत्यवारयदायान्तमार्श्यशृङ्गिर्महाबलः॥ 7-106-16(48918)
तयोः समभवद्युद्धं नरराक्षसयोर्मृधे।
यादृगेव पुरावृत्तं रामरावणयोर्नृप॥ 7-106-17(48919)
ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम्।
आजघ्ने भरतश्रेष्ठः सर्वमर्मसु भारत॥ 7-106-18(48920)
तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे।
रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना॥ 7-106-19(48921)
अदृश्यं समरे चक्रे राजानं सायकोत्तमैः।
साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम्॥ 7-106-20(48922)
ताञ्शरान्द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः।
अवारयत धर्मात्मा दर्शयन्पाणिलाघवम्॥ 7-106-21(48923)
ततो द्रोणो भृशं क्रुद्धो दर्मराजस्य संयुगे।
चिच्छेद समरे धन्वी धनुस्तस्य महात्मनः॥ 7-106-22(48924)
अथैनं छिन्नधन्वानं त्वरमाणो महारथः।
शरैरनेकसाहस्रैः पूरयामास सर्वतः॥ 7-106-23(48925)
अदृश्यं वीक्ष्य राजानं भारद्वाजस्य सायकैः।
सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम्॥ 7-106-24(48926)
केचिच्चैनममन्यन्त तथैव विमुखीकृतम्।
हृतो राजेति राजेन्द्र ब्राह्मणेन महात्मना॥ 7-106-25(48927)
स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः।
त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे।
आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम्॥ 7-106-26(48928)
ततस्तान्सायकांस्तत्र दोणनुन्नान्सहस्रशः।
चिच्छेद समरे वीरस्तदद्भुतमिवाभवत्॥ 7-106-27(48929)
छित्त्वा तु ताञ्शरान्राजक्रोधसंरक्तलोचनः।
शक्तं जग्राह समरे गिरीणामपि दारिणीम्।
स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम्॥ 7-106-28(48930)
समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली।
नादेन सर्वभूतानि त्रासयन्निव भारत॥ 7-106-29(48931)
शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे।
स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन्॥ 7-106-30(48932)
सा राजभुजनिर्मुक्ता निर्मुक्तोरगसन्निभा।
प्रज्वालयन्ती गगनं दिशः सप्रदिशस्तथा।
द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा॥ 7-106-31(48933)
तामापतन्तीं सहसा दृष्ट्वा द्रोणो विशाम्पते।
प्रादुश्चक्रै ततो ब्राह्ममस्त्रमस्त्रविदां वरः॥ 7-106-32(48934)
तदस्त्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम्।
जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः॥ 7-106-33(48935)
ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम्।
अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव मारिष॥ 7-106-34(48936)
विद्व्वा तं च रणे द्रोणं पञ्चभिर्नतपर्वभिः।
क्षुरप्रेण सुतीक्ष्णेन चिच्छेदास्य महद्धनुः॥ 7-106-35(48937)
तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः।
गदां चिक्षेप सहसा धर्मपुत्राय मारिष॥ 7-106-36(48938)
तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः।
गदामेवाग्रहीत्क्रुद्धश्चिक्षेप च परन्तप॥ 7-106-37(48939)
ते गदे सहसा मुक्ते समासाद्य परस्परम्।
सङ्घर्षात्पावकं मुक्त्वा समेयातां महीतले॥ 7-106-38(48940)
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष।
चतुर्भिर्निशितैस्तीक्ष्णैर्हयाञ्जघ्ने शरोत्तमैः॥ 7-106-39(48941)
चिच्छेदैकेन भल्लेन धनुश्चेन्द्रध्वजोपमम्।
केतुमेकेन चिच्छेद पाण्डवं चार्दयत्त्रिभिः॥ 7-106-40(48942)
हताश्वात्तुल रथात्तूर्णमवप्लुत्य युधिष्ठिरः।
तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ॥ 7-106-41(48943)
विरथं तं समालोक्य व्यायुधं च विशेषतः।
द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि चाभिभो॥ 7-106-42(48944)
मुञ्चंश्चेषुगणांस्तीक्ष्णाँल्लघुहस्तो दृढव्रतः।
अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः॥ 7-106-43(48945)
तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना।
हाहेति सुमहाञ्शब्दः पाण्डूनां समजायत॥ 7-106-44(48946)
हृतो राजा हृतो राजा भारद्वाजेन मारिष।
इत्यांसीत्सुमहाञ्शब्दः पाण्डूसैन्यस्य सर्वतः॥ 7-106-45(48947)
ततस्त्वरितमारुह्य सहदेवरथं नृपः।
अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः॥ ॥ 7-106-46(48948)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे षडधिकशततमोऽध्यायः॥ 106 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-106-2 द्रोणे युद्धमवर्तत क. ङ. पाठः। घोरं युद्धमवर्तत इति ट.पाठः॥ 5-106-6 कम्पयन्तो भुवमिति शेषः॥ 5-106-15 सौमदत्तिः शलः॥ 5-106-25 इतो राजेति अमन्यन्तेत्यनुषङ्गः॥ 5-106-106 ष़डधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|